|| आशुगरुडकवचम् ||
श्रीदेव्युवाच
देव देव महादेव सर्वज्ञ करुणानिधे ।
पाहि मां कृपया शम्भो परमानन्दशङ्कर ॥ १॥
यत्तु गुह्यं शुभतरं सर्व-रक्षा-करं परम् ।
गरुत्मान्येन मन्त्रेण सन्तुष्यति हि तद्वद ॥ २॥
श्रीदेवी ने कहा कि देव देव महादेव! सर्वज्ञ करुणानिधे
शम्भु! परमानन्द शङ्कर! मेरा त्राण कीजिये । कृपा कीजिये । यह
बतलाईये जो गरुड को सन्तोषप्रद, गुह्य, शुभद, परम रक्षाकर
मन्त्र हो ।
श्रीशिव उवाच –
साधु देवि महाप्राज्ञे ज्ञानं वक्ष्यामि शङ्करि ।
आशुतार्क्ष्यस्य कवचं महामन्त्रं वदाम्यहम् ॥ ३॥
भोग-मोक्ष-दम-ज्ञान-तिमिरान्धस्य तौलिकम् ।
भुक्ति मुक्ति प्रदं श्रेष्ठं सिद्धिदं सर्वसिद्धिदम् ॥ ४॥
ऋषि-न्यास-प्रभावाश्च शङ्करादिति मन्त्रवित् ।
समाहितेन मनसा जपेन्मन्त्रोत्तमोत्तमम् ॥ ५॥
महाप्रज्ञे देवी तुमको साधुवाद देता हूँ । अब कल्याणकारी ज्ञान को
कहता हूँ । जो आशुगरुड का महामन्त्र है । यह अज्ञानियों को भोग,
मोक्ष, दम, ज्ञान देने वाला है । यह भोग, मोक्षप्रद उत्तम
सिद्धिप्रदायक और सभी सिद्धियों को देने वाला है । ऋषि न्यास
प्रभाव मन्त्रविदजानकर एकाग्र मन से उत्तमोत्तम मन्त्र का जप करे ।
अथ कवचम् ।
तार्क्ष्यो मे पुरतः पातु गरुडः पातु पृष्ठतः ।
सोमः पातु च मे वामं वैनतेयस्तु दक्षिणम् ॥ ६॥
शिखायां गरुडः पातु निटिलं त्वहिसन्धरः ।
नासिकाग्रं विभुः पातु नयने विनतासुतः ॥ ७॥
तेजिष्ठः श्रोत्रयोः पातु मुखं सन्तापमोचनः ॥
ओष्ठयोः पातु नागारिः पातु तालू प्रजाकरः ॥ ८॥
जिह्वां खगेश्वरः पातु दन्तान्पात्वरुणानुजः ।
सीरुकश्चिबुकं पातु पातु चोग्रः कपोलयोः ॥ ९॥
महारिहा गलं पातु चांसयोः कृतविक्रमः ।
करौ पातु च रक्ताक्षः कराग्रे तु महाबलः ॥ १०॥
अङ्गुष्ठौ च हरिः पातु तर्जन्यौ हरिवाहनः ।
मध्यमे सुमुखः पातु चानामिके त्रिलोचनः ॥ ११॥
कनिष्ठिके महोत्साहः स्वात्माङ्गः पातु दोः स्तनम् ।
करपृष्ठं कलातीतो नखान्यमृत-सन्धरः ॥ १२॥
हृदयं पातु सर्वज्ञः कक्षे पक्षिविराट् ततः ।
उरःस्थलं कलाधारः पातु मे जठरं परम् ॥ १३॥
परात्परः कटिं पातु पातु नाभिं हरिप्रियः ।
गुह्यं पातु मनोवेगः जघनं खगपद्मजः ॥ १४॥
जितेन्द्रियो गुदं पातु मेढ्रं सन्तानवर्धनः ।
ऊरू पशुपतिः पातु जानुनी भक्तवत्सलः ॥ १५॥
जङ्घे पातु वषट्कारः सर्वलोकवशङ्करः ।
गुल्फौ नीलशिरः पातु पादपृष्ठं मुरारिधृक् ॥ १६॥
धीरः पादतलं पातु चाङ्गुलीः परमन्त्रतुत् ।
रोमकूपाणि मे पातु मन्त्र-बन्धिविमोचकः ॥ १७॥
स्वाहाकारस्त्वचं पातु रुधिरं वेदपारगः ।
साक्षिकः पातु मे मांसं मेदांसि पातु यज्ञभुक् ॥ १८॥
सामगः पातु मे चास्थि शुक्रं तु हविवर्धनः ।
शोभनः पातु मे मज्जां बुद्धिं भक्तवरप्रदः ॥ १९॥
मूलाधारं खगः पातु स्वाधिष्ठानमथात्मवित् ।
मणिपूरकमत्युग्रः कलधी पात्वनाहतम् ॥ २०॥
विशुद्धिमपरः पातु चाज्ञामाखण्डलप्रियः ।
द्रुततार्क्ष्यो महाभीमो ब्रह्मरन्ध्रं स पातु मे ॥ २१॥
ऐन्द्रं फणिभुजः पातु आग्नेयं कलिदोषभित् ।
याम्यं लघुगतिः पातु नैरृतं सुरवैरिजित् ॥ २२॥
पश्चिमं पातु लोकेशो धौतोरुः पातु मारुतम् ।
गुलिकाशीति कौवेरं पातु चैशान्यमौजसः ॥ २३॥
ऊर्ध्वं पातु सदानन्द-गीत-नृत्यप्रियस्तथा ।
गरुडः पातु पातालं गरलाशी तनुं तथा ॥ २४॥
धन धान्यादिकं पातु तार्क्ष्यो राक्षस-वैरिधृक् ।
भीषणः कन्यकाः पातु भार्यामग्निकणेक्षणः ॥ २५॥
त्वरितः पातु चात्मानं धर्म-कर्म-क्रतूत्तमः ।
पुत्रानायुष्करः पातु वंशं रिपुनिषूदनः ॥ २६॥
सङ्ग्रामे विजयः पातु माग्रं शत्रुविमर्दनः ।
सिद्धिं पातु महादेवो भगवान्भुजगाशनः ॥ २७॥
सततं पातु मां श्रेष्ठं स्वस्तिदः साधकात्मवान् ।
जाग्रत्स्वप्नसुषुप्तौ च कुङ्कुमारुणवक्षसः ॥ २८॥
सर्व-सम्पत्प्रदः पातु स्तुतिर्मन्त्रस्य सिद्धिषु ।
इदं तु तार्क्ष्यकवचं पुरुषार्थप्रदं परम् ॥ २९॥
स्वस्तिदं पुत्रदं सर्वरक्षाकरमनुत्तमम् ।
युद्धे वह्निभये चैव राज-चोर-समागमे ॥ ३०॥
महाभूतारिसङ्घट्टे निजपेत् कवचं शिवे ।
स्मरणादेव नश्यन्ति प्रचण्डानलतूलवत् ॥ ३१॥
आशुतार्क्ष्याख्य-कवचं परमं पुण्यवर्धनम् ।
महागुह्यं महामन्त्रं महामोहन-संज्ञकम् ॥ ३२॥
सर्वदेवमयं मन्त्रं सर्वायुधकरं परम् ।
सर्वमृत्यु-प्रशमनं सर्वंसौभाग्य-वर्धनम् ॥ ३३॥
पावनं परमायुष्यं पाप-पाश-प्रमोचनम् ।
मुनीश्वरैश्च यमिभिःर्नाभिजाद्यमरैः परैः ॥ ३४॥
यह गरुड कवच परम पुरुषार्थ प्रदायक है । यह उत्तम मन्त्र
स्वस्तिप्रद, पुत्रप्रदायक सभी प्रकार से रक्षाकारक है । यह युद्ध
में अग्निभय में राजा, चोर के भय से बचाता है । शिव महाभूत
शत्रूसङ्घट्ट में होने पर इस कवच का जाप करे । इसके स्मरण
से सभी प्रचण्ड अग्नि में रूईके समान जल जाते हैं । आशुतार्क्ष्य
नामक कवच परम पुण्यवर्धन है । यह महामन्त्र महागुह्य और
महामोहन है । यह सर्वदेवमय सभीआयुधों का परमकारक है ।
सभी मृत्युओं का विनाशक और सभी सौभाग्यों का वर्धक है ।
पवित्र परमायु प्रदायक और पाप-पाश कानाशक है । मुनीश्वरों,
देवताओं गुह्यक सुरश्रेष्ठों द्वारा स्तुत्य महा उज्ज्वल है ।
गुह्यकैश्च सुरश्रेष्ठैः स्तूयमानं महोज्ज्वलम् ।
त्रिकालं प्रजपेद् ध्यानपूर्वकं कवचं शिवे ॥ ३५॥
सहसा सर्वसिद्धिः स्याद्वाग्विभूतिर्विशेषतः ।
मुनीनामपि सम्पूज्यः कवचेनावृतः पुमान् ॥ ३६॥
चतुर्दशसु लोकेषु सञ्चरेन्मारवत्तु सः ।
अनेनैव तु कायेन भूतले बहुसम्पदम् ॥ ३७॥
चिरं प्राप्य तु देहान्ते विष्णुसायुज्यमाप्नुयात् ॥ ३८॥
प्रातः, मध्याह्न और शाम तीनों कालों में जो ध्यान सहित इस कवच को
जपता है, उसे अचानक सभी सिद्धियों के साथ विशेष वाणी कावैभव
प्राप्त होता है । इस कवच धारी पुरुष को मुनि लोग भी पूजते हैं
। चौदहों भुवनों में वह कामदेव के समान विचरण करता है ।
पृथ्वी पर इसी शरीर से बहुत सम्पदा प्राप्त करता है । इस सम्पदा
का भोग बहुत दिनों तक करने के बाद देहान्त होने पर विष्णु का
सायुज्य । प्राप्त करता है ।
शिखि-ऋतु-वसु-कोणं चाष्टपत्रं भुवं च ।
क्रतु-शत-शशिचाग्निं भास्कर-व्योमकं च ॥
सकलमनिलयुक्तं तद्बिहिः साध्यशक्तिम् ।
धृत-मृत-सुत-वन्ध्या-पुत्रदं तार्क्ष्यमेतत् ॥ ३९॥
इदं चक्रं महाख्यातं सर्ववक्त्रोक्तमुत्तमम् ।
महागुह्यं महाभीमं महासिद्धिकरं परम् ॥ ४०॥
शुक्रवासरमारभ्य पूज्य जप्त्वा दिनत्रयम् ।
अनेन कवचेनैव जपेदष्टोत्तरं शतम् ॥ ४१॥
तज्जलेनाभिषिञ्च्याथ होमं कृत्वा हि रुक्षकैः ।
निमज्जतां जले देवि बन्धयेत्पुत्रकामिनाम् ॥ ४२॥
॥ इति श्रीआकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे
आशुगारुडकवचं नाम चतुर्दशोऽध्यायः ॥ १४॥
Found a Mistake or Error? Report it Now