|| गणनाथस्तुतिः वैराटदेवेन कृता ||
श्रीगणेशाय नमः ।
पार्वत्युवाच ।
श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् ।
कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥
शिव उवाच ।
पञ्चकोटिप्रविस्तारे योजनानां समन्ततः ।
तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥
संस्थितानि च सर्वाणि भुवनानि चतुर्दश ।
तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः शृणु ॥
पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।
पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ ४॥
सुतलं जानुभागेऽस्य वितलं तूरुमण्डले ।
अतलं कटिसन्धौ च कटयां भूलोकसंस्थितिः ॥ ५॥
नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः ।
महर्लोकश्च कण्ठे वै जनो लोको मुखे स्थितः ॥ ६॥
तपो लोको ललाटे च सत्यलोकः शिरःस्थितः ।
एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ ७॥
सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् ।
सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ ८॥
सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः ।
मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ ९॥
तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् ।
एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ १०॥
बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः ।
हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ ११॥
उभयोः समभावेन बाह्यान्तरसरूपतः ।
ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ १२॥
त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति ।
तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ १३॥
अथ शृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् ।
नानाभावधरां तां वै चराचरमयीं पराम् ॥ १४॥
विराडज्ञानभावेनावृतस्तेन तपः कृतम् ।
एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ १५॥
सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् ।
तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ १६॥
बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् ।
गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ १७॥
धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् ।
धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ १८॥
इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् ।
वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ १९॥
विराडुवाच ।
नमस्ते गणनाथाय गणानां पतये नमः ।
विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ २०॥
सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने ।
नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ २१॥
मनोवागतिभूताय योगिनां हृदि वासिने ।
नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ २२॥
नमो नमो महेशाय शिवाय शिवदायिने ।
सर्वत्र समभावाय विष्णव प्रभविष्णवे ॥ २३॥
तेजोराशिपते तुभ्यं भानवे ते नमो नमः ।
नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ २४॥
स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च ।
सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ २५॥
सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः ।
मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ २६॥
गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः ।
अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ २७॥
इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् ।
वैराटः पुरुषस्तत्र कृताञ्जलिपुटःस्थितः ॥ २८॥
भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः ।
वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ २९॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत ।
यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ ३०॥
यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् ।
भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ ३१॥
इति वैराटदेवेन कृता गणनाथस्तुतिः समाप्ता । १.१०
Read in More Languages:- sanskritरामकृता श्रीगणनाथस्तुतिः
- sanskritमयूरेशकृता श्रीगणनाथस्तुतिः
- sanskritब्रह्माद्याकृता श्रीगणनाथस्तुतिः
- sanskritदेवर्षयकृता श्रीगणनाथस्तुतिः
- sanskritकार्तवीर्यकृता श्रीगणनाथस्तुतिः
- sanskritविघ्नासुरकृता श्रीगजाननस्तुतिः
- sanskritगजाननस्तुतिः लोभासुरेण प्रोक्ता
- sanskritपरशुरामकृता गजाननस्तुतिः
- sanskritनारदमुनिकृता गजाननस्तुतिः
- sanskritदेवाकृता श्रीगजाननस्तुतिः
- sanskritदण्डकारण्यम्कृता श्रीगजाननस्तुतिः
- sanskritएकदन्तस्तुतिः मदासुरेण प्रोक्ता
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritनारदमुनिकृता एकदन्तस्तुतिः
- sanskritशिवकृता गणेश स्तुति
Found a Mistake or Error? Report it Now