Download HinduNidhi App
Shri Krishna

श्री कृष्ण रक्षा कवचम्

Krishna Raksha Kavacham Sanskrit

Shri KrishnaKavach (कवच संग्रह)हिन्दी
Share This

|| श्रीकृष्णरक्षाकवचम् ||

गोप्य ऊचुः –

श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि ।
श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥

नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः ।
अधराववतां ते तु नरनाराणावृषी ॥

कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः ।
भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥

चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु ।
स्कन्धौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते ॥

दोर्दण्डं सततं रक्षेत्पृथुः पृथुलविक्रमः ।
उदरं कमठः पातु नाभिं धन्वन्तरिश्च ते ॥

मोहिनी गुह्यदेशं च कटिं ते वामनोऽवतु ।
पृष्ठं परशुरामश्च तवोरू बादरायणः ॥

बलो जानुद्वयं पातु जङ्घे बुद्धः प्रपातु ते ।
पादौ पातु सगुल्फौ च कल्किर्धर्मपतिः प्रभुः ॥

सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् ।
इदं भगवता दत्तं ब्रह्मणे नाभिपङ्कजे ॥

ब्रह्मणा शम्भवे दत्तं शम्भुर्दुर्वाससे ददौ ।
दुर्वासाः श्रीयशोमत्यै प्रादाच्छ्रीनन्दमन्दिरे ॥

अनेन रक्षां कृत्वास्य गोपीभिः श्रीयशोमती ।

इति गर्गसंहितायां गोलोकखण्डे त्रयोदशाध्यान्तर्गतं
गोपीभिः कृतं श्रीकृष्णरक्षाकवचम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री कृष्ण रक्षा कवचम् PDF

श्री कृष्ण रक्षा कवचम् PDF

Leave a Comment