हरिमीडेस्तोत्रम् अथवा हरिस्तुतिः (शङ्कराचार्यविरचितम्)
|| हरिमीडेस्तोत्रम् अथवा हरिस्तुतिः (शङ्कराचार्यविरचितम्) || स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् । यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥ १॥ यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् । येन व्याप्तं येन विबुद्धं सुखदुःखैस्तं संसारध्वान्तविनाशं हरिमीडे ॥ २॥ सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा । यश्चाऽव्यक्तो व्यस्तसमस्तः सदसद्यस्तं संसारध्वान्तविनाशं हरिमीडे ॥…