Misc

नारायणाष्टाक्षरी स्तुति

Narayana Ashtakshari Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नारायणाष्टाक्षरी स्तुति ||

ओं नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ १ ॥

नमो देवादिदेवाय देहसञ्चारहेतवे
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २ ॥

मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३ ॥

नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४ ॥

रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५ ॥

यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६ ॥

णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७ ॥

यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८ ॥

इति श्री नारायण अष्टाक्षरी स्तुतिः ।

Found a Mistake or Error? Report it Now

नारायणाष्टाक्षरी स्तुति PDF

Download नारायणाष्टाक्षरी स्तुति PDF

नारायणाष्टाक्षरी स्तुति PDF

Leave a Comment

Join WhatsApp Channel Download App