Misc

शत्रुसंहारक एकदन्त स्तोत्रम्

Shatru Samharaka Ekadanta Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शत्रुसंहारक एकदन्त स्तोत्रम् ||

देवर्षय ऊचुः ।
नमस्ते गजवक्त्राय गणेशाय नमो नमः ।
अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ १ ॥

आदिमध्यान्तहीनाय चराचरमयाय ते ।
अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २ ॥

कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर ।
सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ ३ ॥

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च ।
ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ ४ ॥

परशुं दधते तुभ्यं कमलेन प्रशोभिने ।
पाशाभयधरायैव महोदर नमो नमः ॥ ५ ॥

मूषकारूढदेवाय मूषकध्वजिने नमः ।
आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ ६ ॥

गुणसम्युक्तकायाय निर्गुणात्मकमस्तक ।
तयोरभेदरूपेण चैकदन्ताय ते नमः ॥ ७ ॥

वेदान्तगोचरायैव वेदान्तालभ्यकाय ते ।
योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ८ ॥

अपारगुणधारायानन्तमायाप्रचालक ।
नानावतारभेदाय शान्तिदाय नमो नमः ॥ ९ ॥

वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः ।
ब्रह्मभूयमयः साक्षात् प्रत्यक्षं पुरतः स्थितः ॥ १० ॥

एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसम्युताः ।
साश्रुनेत्रान् सरोमाञ्चान् दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ११ ॥

एकदन्त उवाच ।
वरं वृणुत देवेशा मुनयश्च यथेप्सितम् ।
दास्यामि तं न सन्देहो भवेद्यद्यपि दुर्लभः ॥ १२ ॥

भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।
पठते श्रुण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ १३ ॥

शत्रुनाशकरं चैवान्ते स्वानन्दप्रदायकम् ।
पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ १४ ॥

इति श्रीमन्मुद्गलपुराणे द्वितीयेखण्डे एकदन्तचरिते द्विपञ्चाशत्तमोऽध्याये एकदन्तस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

शत्रुसंहारक एकदन्त स्तोत्रम् PDF

Download शत्रुसंहारक एकदन्त स्तोत्रम् PDF

शत्रुसंहारक एकदन्त स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App