॥ शिवमङ्गलाष्टकम् ॥
भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥
भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥
मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे ।
त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥
गंगाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥
सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥
सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।
अघोरायच घोराय महादेवाय मङ्गलम् ॥
मङ्गलाष्टकमेतद्वै शंभोर्यः कीर्तयेद्दिने ।
तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥
- sanskritश्रीमहादेवाष्टकम्
- sanskritअर्ध नारीश्वर अष्टकम्
- sanskritअट्टालसुन्दराष्टकम्
- sanskritश्रीअगस्त्येशलिङ्गाष्टकम्
- sanskritश्रीशिवपुराम्बाष्टकम्
- sanskritरमापत्यष्टकम्
- hindiशंकराचार्य कृत शिवाष्टकम
- bengaliশিবাষ্টকম্
- marathiशिवाष्टकम्
- gujaratiશિવાષ્ટકમ
- kannadaಶಿವಾಷ್ಟಕಂ
- malayalamശിവാഷ്ടകമ്
- odiaଶିଵାଷ୍ଟକମ୍
- tamilஶிவாஷ்டகம்
- teluguశివాష్టకం
Found a Mistake or Error? Report it Now
