|| श्री शिवरक्षा स्तोत्रम् ||
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णो सर्पविभूषण ॥
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥
हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥
सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥
उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥
अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥
इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- malayalamശ്രീ ശിവമാനസപൂജാ സ്തോത്രം
- odiaଶ୍ରୀ ଶିବମାନସପୂଜା ସ୍ତୋତ୍ରମ୍
- kannadaಶ್ರೀ ಶಿವಮಾನಸಪೂಜಾ ಸ್ತೋತ್ರಂ
- tamilஶ்ரீ ஶிவமானஸபூஜா ஸ்தோத்ரம்
- teluguశ్రీ శివమానసపూజా స్తోత్రం
- odiaଅର୍ଡାନେଶ୍ୱର ଷ୍ଟୋଟମ୍ |
- teluguఅర్ధనారీశ్వర స్తోతం
- bengaliঅর্ধনারীশ্বর স্তোতম
- englishShri Shiva Tandava Stotram
- hindiश्री लिंगाष्टक स्तोत्रम् अर्थ सहित
- englishShri Shivmanaspuja Stotram
- hindiश्री विश्वनाथाष्टकम् स्तोत्रम् अर्थ सहित
- englishShri Shiva Panchakshara Stotram
Found a Mistake or Error? Report it Now
