महालक्ष्मी स्तुति
|| महालक्ष्मी स्तुति (Mahalakshmi Stuti PDF) || महालक्ष्मीमहं भजे । देवदैत्यनुतविभवां वरदां महालक्ष्मीमहं भजे । सर्वरत्नधनवसुदां सुखदां महालक्ष्मीमहं भजे । सर्वसिद्धगणविजयां जयदां महालक्ष्मीमहं भजे । सर्वदुष्टजनदमनीं नयदां महालक्ष्मीमहं भजे । सर्वपापहरवरदां सुभगां महालक्ष्मीमहं भजे । आदिमध्यान्तरहितां विरलां महालक्ष्मीमहं भजे । महालक्ष्मीमहं भजे । काव्यकीर्तिगुणकलितां कमलां महालक्ष्मीमहं भजे । दिव्यनागवरवरणां विमलां महालक्ष्मीमहं भजे । सौम्यलोकमतिसुचरां सरलां…