|| सङ्कटनामाष्टकम् ||
नारद उवाच
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक ।
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः ॥ १ ॥
न तृप्तिमधिगच्छामि तव वागमृतेन च ।
वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ॥ २ ॥
इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः ।
सङ्कष्टनाशनं स्तोत्रं शृणु देवर्षिसत्तम ॥ ३ ॥
द्वापरे तु पुरा वृत्ते भ्रष्टराज्यो युधिष्ठिरः ।
भ्रातृभिस्सहितो राज्यनिर्वेदं परमं गतः ॥ ४ ॥
तदानीं तु ततः काशीं पुरीं यातो महामुनिः ।
मार्कण्डेय इति ख्यातः सह शिष्यैर्महायशाः ॥ ५ ॥
तं दृष्ट्वा स समुत्थाय प्रणिपत्य सुपूजितः ।
किमर्थं म्लानवदन एतत्त्वं मां निवेदय ॥ ६ ॥
युधिष्ठिर उवाच
सङ्कष्टं मे महत्प्राप्तमेतादृग्वदनं ततः ।
एतन्निवारणोपायं किञ्चिद्ब्रूहि मुने मम ॥ ७ ॥
मार्कण्डेय उवाच
आनन्दकानने देवी सङ्कटा नाम विश्रुता ।
वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च ॥ ८ ॥
शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणाम् ।
सङ्कटा प्रथमं नाम द्वितीयं विजया तथा ॥ ९ ॥
तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी ।
शर्वाणी पञ्चमं नाम षष्ठं कात्यायनी तथा ॥ १० ॥
सप्तमं भीमनयना सर्वरोगहराऽष्टमम् ।
नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ११ ॥
यः पठेत्पाठयेद्वापि नरो मुच्येत सङ्कटात् ।
इत्युक्त्वा तु द्विजश्रेष्ठमृषिर्वाराणसीं ययौ ॥ १२ ॥
इति तस्य वचः श्रुत्वा नारदो हर्षनिर्भरः ।
ततः सम्पूजितां देवीं वीरेश्वरसमन्विताम् ॥ १३ ॥
भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् ।
मालाकमण्डलुयुतां पद्मशङ्खगदायुताम् ॥ १४ ॥
त्रिशूलडमरुधरां खड्गचर्मविभूषिताम् ।
वरदाभयहस्तां तां प्रणम्य विधिनन्दनः ॥ १५ ॥
वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ ।
एतत् स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनम् ॥ १६ ॥
सङ्कष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥ १७ ॥
इति श्रीपद्मपुराणे सङ्कटनामाष्टकम् ।
Found a Mistake or Error? Report it Now