|| श्री काली कवचम् (जगन्मङ्गलम्) ||
भैरव्युवाच ।
कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥ १ ॥
त्वमेव शरणं नाथ त्राहि मां दुःखसङ्कटात् ।
सर्वदुःखप्रशमनं सर्वपापप्रणाशनम् ॥ २ ॥
सर्वसिद्धिप्रदं पुण्यं कवचं परमाद्भुतम् ।
अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ ३ ॥
श्री भैरव उवाच ।
रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे ।
श्रीजगन्मङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ ४ ॥
पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत् क्षणात् ।
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ ५ ॥
योगिनं क्षोभमनयद्यद्धृत्वा च रघूद्वहः ।
वरदीप्तां जघानैव रावणादिनिशाचरान् ॥ ६ ॥
यस्य प्रसादादीशोऽपि त्रैलोक्यविजयी प्रभुः ।
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ॥ ७ ॥
एवं च सकला देवाः सर्वसिद्धीश्वराः प्रिये ।
श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥ ८ ॥
छन्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ।
जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ।
योविदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥ ९ ॥
अथ कवचम् ।
शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ।
क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्गधारिणी ॥ १० ॥
हूं हूं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुतिद्वयम् ।
दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरी ॥ ११ ॥
क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम् ।
वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी ॥ १२ ॥
द्वाविंशत्यक्षरी स्कन्धौ महाविद्याखिलप्रदा ।
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ॥ १३ ॥
क्रीं हूं ह्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम ।
ऐं हूं ओं ऐं स्तनद्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम् ॥ १४ ॥
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ।
क्रीं क्रीं हूं हूं ह्रीं ह्रीं पातु करौ षडक्षरी मम ॥ १५ ॥
क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकेऽवतु ।
क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ॥ १६ ॥
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ।
सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता ॥ १७ ॥
ह्रीं ह्रीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम् ।
काली दशाक्षरी विद्या स्वाहान्ता चोरुयुग्मकम् ॥ १८ ॥
ओं ह्रीं क्रीं मे स्वाहा पातु जानुनी कालिका सदा ।
काली हृन्नामविधेयं चतुर्वर्गफलप्रदा ॥ १९ ॥
क्रीं हूं ह्रीं पातु सा गुल्फं दक्षिणे कालिकेऽवतु ।
क्रीं हूं ह्रीं स्वाहा पदं पातु चतुर्दशाक्षरी मम ॥ २० ॥
खड्गमुण्डधरा काली वरदाभयधारिणी ।
विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ॥ २१ ॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ॥ २२ ॥
नीला घना बलाका च मात्रा मुद्रा मिता च माम् ।
एताः सर्वाः खड्गधरा मुण्डमालाविभूषणाः ॥ २३ ॥
रक्षन्तु मां दिग्विदिक्षु ब्राह्मी नारायणी तथा ।
माहेश्वरी च चामुण्डा कौमारी चाऽपराजिता ॥ २४ ॥
वाराही नारसिंही च सर्वाश्रयातिभूषणाः ।
रक्षन्तु स्वायुधेर्दिक्षुः दशकं मां यथा तथा ॥ २५ ॥
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ।
श्रीजगन्मङ्गलं नाम महामन्त्रौघविग्रहम् ॥ २६ ॥
त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् ।
गुरुपूजां विधायाथ विधिवत् प्रपठेत्ततः ॥ २७ ॥
कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ।
एतच्छतार्धमावृत्य त्रैलोक्यविजयी भवेत् ॥ २८ ॥
त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ।
महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ॥ २९ ॥
पुष्पाञ्जलीन् कालिकायै मूलेनैव पठेत् सकृत् ।
शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् ॥ ३० ॥
भूर्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारणाद्बुधः ॥ ३१ ॥
त्रैलोक्यं मोहयेत् क्रोधात् त्रैलोक्यं चूर्णयेत् क्षणात् ।
पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ॥ ३२ ॥
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ।
नाशमायान्ति सर्वत्र कवचस्यास्य कीर्तनात् ॥ ३३ ॥
मृतवत्सा च या नारी वन्ध्या वा मृतपुत्रिणी ।
बह्वपत्या जीववत्सा भवत्येव न संशयः ॥ ३४ ॥
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ३५ ॥
स्पर्धामुद्धूय कमला वाग्देवी मन्दिरे मुखे ।
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥ ३६ ॥
इदं कवचमज्ञात्वा यो जपेद्दक्षकालिकाम् ।
शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ ३७ ॥
सहस्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ।
जपेदादौ जपेदन्ते सप्तवाराण्यनुक्रमात् ॥ ३८ ॥
नोधृत्य यत्र कुत्रापि गोपनीयं प्रयत्नतः ।
लिखित्वा स्वर्णपात्रे वै पूजाकाले तु साधकः ।
मूर्ध्निं धार्य प्रयत्नेन विद्यारत्नं प्रपूजयेत् ॥ ३९ ॥
इति श्री काली जगन्मङ्गल कवच स्तोत्रम् ।
Found a Mistake or Error? Report it Now