अर्ध नारीश्वर अष्टकम् PDF संस्कृत
Download PDF of Ardha Naareeswar Ashtakam Sanskrit
Parvati Ji ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
अर्ध नारीश्वर अष्टकम् संस्कृत Lyrics
॥ अर्ध नारीश्वर अष्टकम् ॥
चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥
कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥
झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय
नमः शिवायै च नमः शिवाय ॥
विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥
मंदारमालाकलितालकायै
कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय
नमः शिवायै च नमः शिवाय ॥
अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥
प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥
प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या
स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअर्ध नारीश्वर अष्टकम्

READ
अर्ध नारीश्वर अष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
