|| नव दुर्गा स्तोत्र ||
चन्द्रार्धधारकतनूं च वरां चराणां
वाचालवाङ्मयकरां च विभवां विभूषाम्।
विद्याज्ञवन्दितवरां व्रतपर्वपुण्यां
वन्दे शुभां शिवसखीं हिमशैलपुत्रीम्।
ॐ शैलपुत्र्यै नमः।
दोर्भ्यां कमण्डलुसितस्फटिके दधानां
ब्रह्मप्रचारनियुतां सुरसेव्यमानाम्।
वेदेषु वर्णितवरां विकटस्वरूपां
वन्दे हि चोत्तमगुणां श्रुतिवादिनीं ताम्।
ॐ ब्रह्मचारिण्यै नमः।
कोपप्रतापशरमौर्वियुतां पुराणां
चन्द्रप्रकाशसदृशानलभालयुक्ताम्।
वीराभिवाञ्छितसमस्तवरप्रदां तां
वन्दे विशालवसनां श्रुतचन्द्रघण्टाम्।
ॐ चन्द्रघण्टायै नमः।
सत्त्वां सुवर्णवदनां सततं सुतप्तां
यज्ञक्रियासु वरदां वितनूं विवन्द्याम्।
कालां कुशाग्रसमबुद्धिमतीं हिरण्याम्।
वन्दे कुशां कुवलयां गणदेवतां ताम्।
ॐ कूष्माण्डायै नमः।
शम्भोः सुपत्निपरमां स्मृतिवर्णितेशां
देवीं शराग्रदहनां शतसूर्यदीप्ताम्।
ईप्साधिकप्रफलदां परमामृतज्ञां
वन्दे सुशब्दजननीं गुहमातृकां ताम्।
ॐ स्कन्दमात्रे नमः।
कामेश्वरीं कुमुदमालिकमालिनीं तां
कल्पं दिनार्धमितमात्रकदैवताख्याम्।
कात्यायनीं दिविजकन्यकुमारिकां कां
वन्दे तपोधननिभां कतपुत्रिकां ताम्।
ॐ कात्यायन्यै नमः।
कल्याणकर्तृवरदां च सुखार्थदात्रीं
काव्यामृताकलितकालकलाप्रवीणाम्।
पापापनोदनकरां परमस्वरूपां
वन्दे सदा हि सकलां निजकालरात्रिम्।
ॐ कालरात्र्यै नमः।
इन्दीवरेन्द्रवदनामभयां प्रसन्नां
प्राणप्रदां प्रवरपर्वतपुत्रिकां ताम्।
देवीं सुभक्तवरदां परमेड्यमानां
वन्दे प्रियां प्रवदनां पृथुगौरवर्णाम्।
ॐ महागौर्यै नमः।
संवृत्तसंयमधनां स्मितभावदृश्यां
शुद्धां सुरक्तवरभक्तनुतिप्रकामाम्।
सिद्धादिदेववरयोनिभिरर्चितां तां
वन्दे सुरोद्भवकरां समसिद्धिदात्रीम्।
ॐ सिद्धिदात्र्यै नमः।
- sanskritदेवी अपराध क्षमापन स्तोत्र हिन्दी अर्थ सहित
- kannadaಶ್ರೀ ದೇವ್ಯಥರ್ವಶೀರ್ಷಂ
- tamilராஜராஜேஸ்வரி ஸ்தோத்திரம்
- malayalamരാജരാജേശ്വരീ സ്തോത്രം
- kannadaರಾಜರಾಜೇಶ್ವರೀ ಸ್ತೋತ್ರ
- hindiराजराजेश्वरी स्तोत्र
- bengaliদুর্গা মানস পূজা ষ্টোরম
- sanskritश्री शान्तादुर्गा देविप्रणति स्तोत्रं
- malayalamദുർഗ്ഗ മാനസ് പൂജ സ്റ്റോരം
- odiaଦୁର୍ଗା ମାନସ ପୂଜା ଷ୍ଟୋଟ୍ରାମ
- punjabiਦੁਰਗਾ ਮਾਨਸ ਪੂਜਾ ਸਟੋਰਮ
- sanskritदुर्गा द्वात्रिंश नाम माला स्तोत्र लाभ सहित
- englishShri Durga Dwatrimsha Naam Mala Stotra
- sanskritश्री कृष्ण कृतं दुर्गा स्तोत्रम्
- sanskritआपदुन्मूलन दुर्गा स्तोत्रम्
Found a Mistake or Error? Report it Now
