|| गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम् ||
श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच –
नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते ।
अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ १॥
प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ २॥
क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे ।
यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ ३॥
शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि ।
सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ ४॥
विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ ५॥
गणास्त एते गणनाथनाम्ना त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ ६॥
गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री ।
तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ ७॥
गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ ८॥
किं वदामि गणाधीश महिमानं महाद्भुतम् ।
यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ ९॥
पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ १०॥
किञ्चित्संस्कारयोगेन विश्रामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणानिर्मलाः पुरा ॥ ११॥
अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः ।
तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ १२॥
एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् ।
भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ १३॥
गणेश उवाच –
वरान्वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ १४॥
तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भ्रूशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ १५॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ १६॥
तथेति तमुवाचाथ गणेशो भक्तवत्सलः ।
क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ १७॥
अमलाश्रमकं नाम्ना जनानां सेविनां सदा ।
अज्ञानज मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ १८॥
एवमुक्त्वांऽतर्दधे च गणेशो देवनायकः ।
भ्रूशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ १९॥
नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः ।
तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ २०॥
ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा ।
तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ २१॥
शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः ।
क्षेत्रसंन्यासभावेन तेऽसेवन्त महामुनिम् ॥ २२॥
भ्रूशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् ।
भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ २३॥
तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः ।
शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ २४॥
कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः ।
प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ २५॥
इन्द्रादयस्तमेवं च दर्शनार्थं समागताः ।
कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ २६॥
ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः ।
नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ २७॥
एवं प्रभावयुक्तः स भ्रूशुण्डी कथितो मया ।
चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ २८॥
॥ इति श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते
भ्रूशुण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्याये
गाणेश्वरस्तोत्रं सम्पूर्णम् ।
- englishShri Mahaganesh Panchratna Stotra
- englishShatru Sanharakam Shri Aik Dant Stotram
- englishShri Santan Ganpati Stotra
- englishShri Pancharatna Ganpati Stotram
- hindiश्री पंचरत्न गणपति स्तोत्र
- hindiश्री पंचरत्न गणपति स्तोत्रम् अर्थ सहित
- hindiश्री संतानगणपति स्तोत्रम् अर्थ सहित
- hindiश्री गणाधिपत स्तोत्रम्
- sanskritशत्रु संहारकम श्री ऐक दन्त स्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापण स्तोत्रम्
- sanskritश्रीगणेशावतारस्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापणस्तोत्रम्
- sanskritसाधुकृतं श्रीगणेशस्तोत्रम्
- sanskritसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
Found a Mistake or Error? Report it Now