
श्री सूर्य स्तुतिः (मनु कृतम्) PDF संस्कृत
Download PDF of Manu Krutha Surya Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री सूर्य स्तुतिः (मनु कृतम्) संस्कृत Lyrics
|| श्री सूर्य स्तुतिः (मनु कृतम्) ||
मनुरुवाच ।
नमो नमो वरेण्याय वरदायाऽम्शुमालिने ।
ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ॥ १ ॥
त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च ।
नमो धर्माय हंसाय जगज्जननहेतवे ॥ २ ॥
नरनारीशररीराय नमो मीढुष्टमाय ते ।
प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ॥ ३ ॥
नमो व्याहृतिरूपाय त्रिलक्षायाऽऽशुगामिने ।
हर्यश्वाय नमस्तुभ्यं नमो हरितवाहवे ॥ ४ ॥
एकलक्षविलक्षाय बहुलक्षाय दण्डिने ।
एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः ॥ ५ ॥
शक्तित्रयाय शुक्लाय रवये परमेष्ठिने ।
त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः ॥ ६ ॥
त्वमोङ्कारो वषट्कारः स्वधा स्वाहा त्वमेव हि ।
त्वामृते परमात्मानं न तत्पश्यामि दैवतम् ॥ ७ ॥
इति श्रीसौरपुराणे प्रथमोऽध्याये मनुकृत श्री सूर्य स्तुतिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री सूर्य स्तुतिः (मनु कृतम्)

READ
श्री सूर्य स्तुतिः (मनु कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
