|| श्री पद्मा कवचम् ||
नारायण उवाच ।
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ।
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ १ ॥
सम्प्राप्य कवचं ब्रह्म तत्पद्मे ससृजे जगत् ।
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ २ ॥
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ।
पाद्मेन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ३ ॥
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।
कुमारेण च यद्दत्तं पुष्कराक्षाय नारद ॥ ४ ॥
यद्धृत्वा पठनाद्ब्रह्मा सर्वसिद्धेश्वरो महान् ।
परमैश्वर्यसम्युक्तः सर्वसम्पत्समन्वितः ॥ ५ ॥
यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ।
स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ॥ ६ ॥
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ।
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्धारणाद्यतः ॥ ७ ॥
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ।
धर्मश्च कर्मणां साक्षी पाता यस्य प्रसादतः ॥ ८ ॥
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ।
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥ ९ ॥
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ।
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥ १० ॥
राजा मरुत्तो भगवानभवद्धारणाद्यतः ।
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥ ११ ॥
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ।
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान् ॥ १२ ॥
सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥ १३ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ १४ ॥
ओं ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥ १५ ॥
ओं श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु ।
ओं [ह्रीं] श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ १६ ॥
ओं श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु ।
ओं श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु ॥ १७ ॥
ओं श्रीं नारायणेशायै मम कण्ठं सदाऽवतु ।
ओं श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥ १८ ॥
ओं श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ओं ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥ १९ ॥
ओं श्रीं ओं कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ २० ॥
ओं श्रीनिवासकान्तायै मम पादौ सदाऽवतु ।
ओं ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ २१ ॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैरृत्यां श्रीहरिप्रिया ॥ २२ ॥
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ २३ ॥
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ २४ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ २५ ॥
सुवर्णपर्वतं दत्वा मेरुतुल्यं द्विजातये ।
यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ २६ ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥ २७ ॥
अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् ।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥ २८ ॥
स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः ।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ २९ ॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥ ३० ॥
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसङ्ख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ३१ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे अष्टात्रिंशत्तमोऽध्याये नारदनारायणसंवादे श्री लक्ष्मी कवचम् ॥
Found a Mistake or Error? Report it Now