Download HinduNidhi App
Misc

श्री दक्षिणकालिका खड्गमाला स्तोत्रम्

Sri Dakshina Kali Khadgamala Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री दक्षिणकालिका खड्गमाला स्तोत्रम् ||

अस्य श्रीदक्षिणकालिका खड्गमालामन्त्रस्य श्री भगवान् महाकालभैरव ऋषिः उष्णिक् छन्दः शुद्धः ककार त्रिपञ्चभट्‍टारकपीठस्थित महाकालेश्वराङ्कनिलया, महाकालेश्वरी त्रिगुणात्मिका श्रीमद्दक्षिणा कालिका महाभयहारिका देवता क्रीं बीजं ह्रीं शक्तिः हूं कीलकं मम सर्वाभीष्टसिद्ध्यर्थे खड्गमालामन्त्र जपे विनियोगः ॥

ऋष्यादि न्यासः –
ओं महाकालभैरव ऋषये नमः शिरसि ।
उष्णिक् छन्दसे नमः मुखे ।
दक्षिणकालिका देवतायै नमः हृदि ।
क्रीं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
हूं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्यां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठिकाभ्यां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।

ध्यानम् –
सद्यश्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीं
घोरास्यां शिरसि स्रजा सुरुचिरानुन्मुक्त केशावलिम् ।
सृक्कासृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं
श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥ १ ॥

शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥ २ ॥

लमित्यादि पञ्चपूजाः –
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पं समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ।

अथ खड्गमाला ।
ओं ऐं ह्रीं श्रीं क्रीं हूं ह्रीं श्रीमद्दक्षिणकालिके, हृदयदेवि सिद्धिकालिकामयि, शिरोदेवि महाकालिकामयि, शिखादेवि गुह्यकालिकामयि, कवचदेवि श्मशानकालिकामयि, नेत्रदेवि भद्रकालिकामयि, अस्त्रदेवि श्रीमद्दक्षिणकालिकामयि, सर्वसम्पत्प्रदायक चक्रस्वामिनि । जया सिद्धिमयि, अपराजिता सिद्धिमयि, नित्या सिद्धिमयि, अघोरा सिद्धिमयि, सर्वमङ्गलमयचक्रस्वामिनि । श्रीगुरुमयि, परमगुरुमयि, परात्परगुरुमयि, परमेष्ठिगुरुमयि, सर्वसम्पत्प्रदायकचक्रस्वामिनि । महादेव्यम्बामयि, महादेवानन्दनाथमयि, त्रिपुराम्बामयि, त्रिपुरभैरवानन्दनाथमयि, ब्रह्मानन्दनाथमयि, पूर्वदेवानन्दनाथमयि, चलच्चितानन्दनाथमयि, लोचनानन्दनाथमयि, कुमारानन्दनाथमयि, क्रोधानन्दनाथमयि, वरदानन्दनाथमयि, स्मराद्वीर्यानन्दनाथमयि, मायाम्बामयि, मायावत्यम्बामयि, विमलानन्दनाथमयि, कुशलानन्दनाथमयि, भीमसुरानन्दनाथमयि, सुधाकरानन्दनाथमयि, मीनानन्दनाथमयि, गोरक्षकानन्दनाथमयि, भोजदेवानन्दनाथमयि, प्रजापत्यानन्दनाथमयि, मूलदेवानन्दनाथमयि, ग्रन्थिदेवानन्दनाथमयि, विघ्नेश्वरानन्दनाथमयि, हुताशनानन्दनाथमयि, समरानन्दनाथमयि, सन्तोषानन्दनाथमयि, सर्वसम्पत्प्रदायकचक्रस्वामिनि । कालि, कपालिनि, कुल्ले, कुरुकुल्ले, विरोधिनि, विप्रचित्ते, उग्रे, उग्रप्रभे, दीप्ते, नीले, घने, बलाके, मात्रे, मुद्रे, मित्रे, सर्वेप्सितफलप्रदायकचक्रस्वामिनि । ब्राह्मि, नारायणि, माहेश्वरि, चामुण्डे, कौमारि, अपराजिते, वाराहि, नारसिंहि, त्रैलोक्यमोहनचक्रस्वामिनि । असिताङ्गभैरवमयि, रुरुभैरवमयि, चण्डभैरवमयि, क्रोधभैरवमयि, उन्मत्तभैरवमयि, कपालिभैरवमयि, भीषणभैरवमयि, संहारभैरवमयि, सर्वसङ्क्षोभण चक्रस्वामिनि । हेतुवटुकानन्दनाथमयि, त्रिपुरान्तकवटुकानन्दनाथमयि, वेतालवटुकानन्दनाथमयि, वह्निजिह्ववटुकानन्दनाथमयि, कालवटुकानन्दनाथमयि, करालवटुकानन्दनाथमयि, एकपादवटुकानन्दनाथमयि, भीमवटुकानन्दनाथमयि, सर्वसौभाग्यदायकचक्रस्वामिनि । ओं ऐं ह्रीं क्लीं हूं फट् स्वाहा सिंहव्याघ्रमुखी योगिनिदेवीमयि, सर्पासुमुखी योगिनिदेवीमयि, मृगमेषमुखी योगिनिदेवीमयि, गजवाजिमुखी योगिनिदेवीमयि, बिडालमुखी योगिनिदेवीमयि, क्रोष्टासुमुखी योगिनिदेवीमयि, लम्बोदरी योगिनिदेवीमयि, ह्रस्वजङ्घा योगिनिदेवीमयि, तालजङ्घा योगिनिदेवीमयि, प्रलम्बोष्ठी योगिनिदेवीमयि, सर्वार्थदायकचक्रस्वामिनि । ओं ऐं ह्रीं श्रीं क्रीं हूं ह्रीं इन्द्रमयि, अग्निमयि, यममयि, निरृतिमयि, वरुणमयि, वायुमयि, कुबेरमयि, ईशानमयि, ब्रह्ममयि, अनन्तमयि, वज्रिणि, शक्तिनि, दण्डिनि, खड्गिनि, पाशिनि, अङ्कुशिनि, गदिनि, त्रिशूलिनि, पद्मिनि, चक्रिणि, सर्वरक्षाकरचक्रस्वामिनि । खड्गमयि, मुण्डमयि, वरमयि, अभयमयि, सर्वाशापरिपूरकचक्रस्वामिनि । वटुकानन्दनाथमयि, योगिनिमयि, क्षेत्रपालानन्दनाथमयि, गणनाथानन्दनाथमयि, सर्वभूतानन्दनाथमयि, सर्वसङ्क्षोभणचक्रस्वामिनि । नमस्ते नमस्ते फट् स्वाहा ॥

चतुरस्त्राद्बहिः सम्यक् संस्थिताश्च समन्ततः ।
ते च सम्पूजिताः सन्तु देवाः देवि गृहे स्थिताः ॥

सिद्धाः साध्याः भैरवाश्च गन्धर्वा वसवोऽश्विनौ ।
मुनयो ग्रहास्तुष्यन्तु विश्वेदेवाश्च उष्मयाः ॥

रुद्रादित्याश्च पितरः पन्नगाः यक्षचारणाः ।
योगेश्वरोपासका ये तुष्यन्ति नरकिन्नराः ॥

नागा वा दानवेन्द्राश्च भूतप्रेतपिशाचकाः ।
अस्त्राणि सर्वशस्त्राणि मन्त्र यन्त्रार्चन क्रियाः ॥

शान्तिं कुरु महामाये सर्वसिद्धिप्रदायिके ।
सर्वसिद्धिमयचक्रस्वामिनि नमस्ते नमस्ते स्वाहा ॥

सर्वज्ञे सर्वशक्ते सर्वार्थप्रदे शिवे सर्वमङ्गलमये सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे सर्वपापहरे सर्वरक्षास्वरूपिणि सर्वेप्सितफलप्रदे सर्वमङ्गलदायक चक्रस्वामिनि नमस्ते नमस्ते स्वाहा ॥

क्रीं ह्रीं हूं क्ष्म्यूं महाकालाय, हौं महादेवाय, क्रीं कालिकायै, हौं महादेव महाकाल सर्वसिद्धिप्रदायक देवी भगवती चण्डचण्डिका चण्डचितात्मा प्रीणातु दक्षिणकालिकायै सर्वज्ञे सर्वशक्ते श्रीमहाकालसहिते श्रीदक्षिणकालिकायै नमस्ते नमस्ते फट् स्वाहा ।
ह्रीं हूं क्रीं श्रीं ह्रीं ऐं ओम् ॥

इति श्रीरुद्रयामले दक्षिणकालिका खड्गमाला स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री दक्षिणकालिका खड्गमाला स्तोत्रम् PDF

श्री दक्षिणकालिका खड्गमाला स्तोत्रम् PDF

Leave a Comment