व्यंकटेश स्तोत्र

|| Venkatesh Stotra Marathi || श्री गणेशाय नम: । श्री व्यंकटशाय नम: । ॐ नमो जी हेरंबा । सकळादि तू प्रारंभा । आठवूनी तुझी स्वरूपशोभा । वंदन भावे करीतसे ।।१।। नमन माझे हंसवाहिनी । वाग्वरदे विलासिनी । ग्रंथ वदावया निरुपणी । भावार्थखाणी जयामाजी ।।२।। नमन माझे गुरुवर्या । प्रकाशरूपा तू स्वामिया । स्फूर्ति द्यावी ग्रंथ वदावया ।…

ശൈലപുത്രീ സ്തോത്രം

|| ശൈലപുത്രീ സ്തോത്രം || ഹിമാലയ ഉവാച – മാതസ്ത്വം കൃപയാ ഗൃഹേ മമ സുതാ ജാതാസി നിത്യാപി യദ്ഭാഗ്യം മേ ബഹുജന്മജന്മജനിതം മന്യേ മഹത്പുണ്യദം . ദൃഷ്ടം രൂപമിദം പരാത്പരതരാം മൂർതിം ഭവാന്യാ അപി മാഹേശീം പ്രതി ദർശയാശു കൃപയാ വിശ്വേശി തുഭ്യം നമഃ .. ശ്രീദേവ്യുവാച – ദദാമി ചക്ഷുസ്തേ ദിവ്യം പശ്യ മേ രൂപമൈശ്വരം . ഛിന്ധി ഹൃത്സംശയം വിദ്ധി സർവദേവമയീം പിതഃ .. ശ്രീമഹാദേവ ഉവാച – ഇത്യുക്ത്വാ തം ഗിരിശ്രേഷ്ഠം…

சைலபுத்ரி ஸ்தோத்திரம்

|| சைலபுத்ரி ஸ்தோத்திரம் || ஹிமாலய உவாச – மாதஸ்த்வம்ʼ க்ருʼபயா க்ருʼஹே மம ஸுதா ஜாதாஸி நித்யாபி யத்பாக்யம்ʼ மே பஹுஜன்மஜன்மஜனிதம்ʼ மன்யே மஹத்புண்யதம் . த்ருʼஷ்டம்ʼ ரூபமிதம்ʼ பராத்பரதராம்ʼ மூர்திம்ʼ பவான்யா அபி மாஹேஶீம்ʼ ப்ரதி தர்ஶயாஶு க்ருʼபயா விஶ்வேஶி துப்யம்ʼ நம꞉ .. ஶ்ரீதேவ்யுவாச – ததாமி சக்ஷுஸ்தே திவ்யம்ʼ பஶ்ய மே ரூபமைஶ்வரம் . சிந்தி ஹ்ருʼத்ஸம்ʼஶயம்ʼ வித்தி ஸர்வதேவமயீம்ʼ பித꞉ .. ஶ்ரீமஹாதேவ உவாச – இத்யுக்த்வா தம்ʼ கிரிஶ்ரேஷ்டம்ʼ…

ಶೈಲಪುತ್ರೀ ಸ್ತೋತ್ರಂ

|| ಶೈಲಪುತ್ರೀ ಸ್ತೋತ್ರಂ || ಹಿಮಾಲಯ ಉವಾಚ – ಮಾತಸ್ತ್ವಂ ಕೃಪಯಾ ಗೃಹೇ ಮಮ ಸುತಾ ಜಾತಾಸಿ ನಿತ್ಯಾಪಿ ಯದ್ಭಾಗ್ಯಂ ಮೇ ಬಹುಜನ್ಮಜನ್ಮಜನಿತಂ ಮನ್ಯೇ ಮಹತ್ಪುಣ್ಯದಂ . ದೃಷ್ಟಂ ರೂಪಮಿದಂ ಪರಾತ್ಪರತರಾಂ ಮೂರ್ತಿಂ ಭವಾನ್ಯಾ ಅಪಿ ಮಾಹೇಶೀಂ ಪ್ರತಿ ದರ್ಶಯಾಶು ಕೃಪಯಾ ವಿಶ್ವೇಶಿ ತುಭ್ಯಂ ನಮಃ .. ಶ್ರೀದೇವ್ಯುವಾಚ – ದದಾಮಿ ಚಕ್ಷುಸ್ತೇ ದಿವ್ಯಂ ಪಶ್ಯ ಮೇ ರೂಪಮೈಶ್ವರಂ . ಛಿಂಧಿ ಹೃತ್ಸಂಶಯಂ ವಿದ್ಧಿ ಸರ್ವದೇವಮಯೀಂ ಪಿತಃ .. ಶ್ರೀಮಹಾದೇವ ಉವಾಚ – ಇತ್ಯುಕ್ತ್ವಾ ತಂ ಗಿರಿಶ್ರೇಷ್ಠಂ…

हरिमीडेस्तोत्रम् अथवा हरिस्तुतिः (शङ्कराचार्यविरचितम्)

|| हरिमीडेस्तोत्रम् अथवा हरिस्तुतिः (शङ्कराचार्यविरचितम्) || स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् । यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥ १॥ यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् । येन व्याप्तं येन विबुद्धं सुखदुःखैस्तं संसारध्वान्तविनाशं हरिमीडे ॥ २॥ सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा । यश्चाऽव्यक्तो व्यस्तसमस्तः सदसद्यस्तं संसारध्वान्तविनाशं हरिमीडे ॥…

श्री गणाधिपत स्तोत्रम्

|| श्री गणाधिप स्तोत्र || सरागिलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम्॥ गिरा गुरु श्रिया हरिं जयन्ति यत्पदार्थका, नमामि तं गणाधिपं कृपापयः पयोनिधिम्॥ गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं, करीन्द्रवक्त्रमानताघसंघवारणोद्यतम्। सरीसृपेशबद्धकुक्षिमाश्रयामि संततं, शरीरकान्तिनिर्जिताब्जबन्धुबालसंततिम्॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं, प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये। चकासनं चतुर्भुजैर्विकासिपद्मपूजितं, प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम्॥ नराधिपत्वदायकं स्वरादिलोकदायकं, जरादिरोगवारकं निराकृतासुरव्रजम्। कराम्बुजैर्धरन्सृणीन् विकारशून्यमानसैर्हृदा, सदा विभावितं मुदा नमामि विघ्नपम्॥ श्रमापनोदनक्षमं समाहितान्तरात्मना, समाधिभिः सदार्चितं क्षमानिधिं गणाधिपम्। रमाधवादिपूजितं यमान्तकात्मसम्भवं, शमादिषड्गुणप्रदं नमामि…

श्री कनकधारा स्तोत्र

|| श्री कनकधारा स्तोत्र || अङ्ग हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ विश्वामरेन्द्रपदविभ्रमदानदक्ष – मानन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्ध – मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ आमीलिताक्षमधिगम्य मुदा मुकुन्द – मानन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः…

लांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र

|| लांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र || हनुमन्नञ्जनीसूनो महाबलपराक्रम। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। मर्कटाधिप मार्तण्ड मण्डल-ग्रास-कारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। अक्षक्षपणपिङ्गाक्षक्षितिजाशुग्क्षयङ्र। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। रुद्रावतार संसार-दुःख-भारापहारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। श्रीराम-चरणाम्भोज-मधुपायितमानस। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। बालिप्रथमक्रान्त सुग्रीवोन्मोचनप्रभो। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। सीता-विरह-वारीश-मग्न-सीतेश-तारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। रक्षोराज-तापाग्नि-दह्यमान-जगद्वन। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।। ग्रस्ताऽशैजगत्-स्वास्थ्य-राक्षसाम्भोधिमन्दर। लोलल्लांगूलपातेन ममाऽतरीन् निपातय…

मीनाक्षी पञ्चरत्नम् स्तोत्रम

|| मीनाक्षी पञ्चरत्नम् स्तोत्रम || उद्यद्भानुसहस्रकॊटिसदृशां कॆयूरहारॊज्ज्वलां बिम्बॊष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् । विष्णुब्रह्मसुरॆन्द्रसॆवितपदां तत्वस्वरूपां शिवां मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ मुक्ताहारलसत्किरीटरुचिरां पूर्णॆन्दुवक्त्रप्रभां शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् । सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासॆवितां मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रॊज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् । श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मॊहिनीं मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ श्रीमत्सुन्दरनायिकां भयहरां ज्ञानाप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्…

श्री हनुमत पञ्चरत्नं स्तोत्र

॥ श्री हनुमत पञ्चरत्नं स्तोत्र ॥ वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् । सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल- महिमानमञ्जना-भाग्यम ॥ शम्बरवैरि-शरातिगमम्बुजदल- विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥ दूरीकृत-सीतार्तिः प्रकटीकृत- रामवैभव-स्फूर्ति । दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ वानर-निकराध्यक्षं दानवकुल- कुमुद-रविकर-सदृशम् । दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ एतत्-पवन-सुतस्य स्तोत्रं यः पठति…

श्री मंगल चंडिका स्तोत्रम्

॥ श्री मंगल चंडिका स्तोत्रम् ॥ ॥ध्यान॥ “ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके । ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ॥ पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः । दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः । ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ॥ देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥ श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्…

श्रीहनुमद्रक्षास्तोत्रम्

|| श्रीहनुमद्रक्षास्तोत्रम् || वामे करे वैरिभिदं वहन्तं शैलं परे श‍ृङ्खलहारटङ्कम् । ददानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १॥ पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमस्तकम् । दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २॥ उद्यदादित्यसङ्काशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ३॥ श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ४॥ वामहस्ते महाकृच्छ्रदशास्यकरमर्दनम् । उद्यद्वीक्षणकोदण्डं हनूमन्तं विचिन्तयेत् ॥ ५॥ स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं…

श्रीजनकजाप्रपत्तिसारस्तोत्रं

|| श्रीजनकजाप्रपत्तिसारस्तोत्रं || न वाग्वपुर्बुद्धिभिरेव कस्यचित् कदापि हिंसाऽस्तु शरीरिणो वृथा । भवत्पदाम्भोरुहचिन्तनं विना न चापयात्वम्बुजवीक्षणे क्षणः ॥ १॥ हसन्तु निन्दन्तु वदन्तु दुर्वचो जना नियुक्ता हृदयस्थितेन वै । केनापि देवेन यदाश्रितं सदा न संस्थितिं स्वां प्रजहातु मे मनः ॥ २॥ निन्दा भयं मेऽस्तु तथा न जातुचिद् यथेह निन्द्याचरणान्ममोरसि । परोपकाराय सदाऽस्तु मे मतिर्न चापकाराय कदापि कस्यचित्…

आमन्त्रणोत्सवस्तोत्रम्

|| आमन्त्रणोत्सवस्तोत्रम् || आमन्त्रणं ते निगमोक्तमन्त्रैस्तन्त्रप्रवेशाय मनोहराय । श्रीरामचन्द्राय सुखप्रदाय करोम्यहं त्वं कृपया गृहाण ॥ १॥ सत्याधिराजार्चितपादपद्म श्रीमध्वसम्पूजित सुन्दराङ्ग । श्रीभार्गवीसन्नुतमन्दहास श्रीव्यासदेवाय नमो नमस्ते ॥ २॥ अनन्तरूपैरजितादिभिश्च परादिभिश्श्रीबृहतीसहस्रः । विश्वादिभिश्चैव सहस्ररूपैर्नारायणाद्यष्टशतैरजाद्यैः ॥ ३॥ एकाधिपञ्चाशदितैश्च रूपैश्श्रीकेशवाद्यैश्च चतुर्स्सुविंशैः । मत्स्यादिभिस्स्वच्छदशस्वरूपैर्विश्वादिभिश्चाष्टभिरग्ररूपैः ॥ ४॥ तथाऽनिरुद्धादिचतुस्स्वरूपैर्गोब्राह्मणश्रीतुलसीनिवासैः । मन्त्रेशरूपैः परमाणुपूर्वसंवत्सरान्तामलकालरूपैः ॥ ५॥ ज्ञानादिन्दैस्स्थावरजङ्गमस्थैरव्याकृताकाशविहाररूपैः । नारायणाख्येन तथाऽनिरुद्धरूपेण सक्ष्मोदगतेन तुष्टैः ॥ ६॥ प्रद्युम्नसङ्कर्षणनामकाभ्यां…

श्रीआचार्यपरम्परास्तोत्रम्

|| श्रीआचार्यपरम्परास्तोत्रम् || श्रीहंसं सनकादिकं मुनिवरं वीणाधरं नारदं श्रीमन्निम्बदिवाकरार्यकमहं श्रीश्रीनिवासं भजे । विश्वार्य्यपुरुषोत्तमञ्चभवहन् श्रीमद्विलासास्वरू- पाचार्य्यं किलमाधवं च वलयुक्भद्रं च पद्मार्पकम् ॥ १॥ वन्दे श्यामकगोपपालककृपान्, देवार्यकं सुन्दरं पद्मोपेन्द्रक-रामचन्द्रकभटान् श्रीवामनं कृष्णकम् । पद्माभं श्रवणञ्च भूरिभटकं श्रीमाधवं श्यामलं गोपालं वलभद्रगोपिवरदं श्रीकेशवं गाङ्गलम् ॥ २॥ काश्मीरीयुतकेशवं भटमहं श्रीभट्टदेवं भजे श्रीव्यासं हरिमध्यगञ्चवरदं श्रीपरशुरामामिधम् । वन्दे श्रीहरिवंशदेवचरणं नारायणार्य्यं भजे श्रीवृन्दावनदेवपादशरणं गोविन्ददेवं…

श्रीगुरुशिवानन्दस्तोत्रम्

|| श्रीगुरुशिवानन्दस्तोत्रम् || (अनुष्टुप्छन्दः) शिवानन्दं दयासिन्धुं सुन्दरानन्दविग्रहम् । भवाब्धितारकं वन्दे ज्ञानविज्ञानदं शुभम् ॥ १॥ सच्चित्सुखघनाकारं जगतः स्थितिकारणम् । आत्मरूपं परं शान्तं शिवानन्दगुरुं भजे ॥ २॥ अहंस्फूर्तितरङ्गस्थं चिदानन्दाब्धिरूपकम् । मुमुक्षुनलिनीचन्द्रं शिवानन्दगुरुं स्तुवे ॥ ३॥ अज्ञानरजनीसूर्यं तप्तचित्तसुधाघनम् । भवरोगभिषग्रत्नं शिवानन्दं गुरुं श्रये ॥ ४॥ कुण्डले कटकं यद्वत् मृगाम्भसि च आतपः । तद्वज्जगति यत्सत्यं तस्मिन् शिवपदे रमे ॥…

गुरुपरब्रह्मपरमात्मास्तोत्रम्

|| गुरुपरब्रह्मपरमात्मास्तोत्रम् || (अनुष्टुप्छन्दः) जगतकारणं नित्यं ब्रह्मैवास्ति नचीतरतः । आनन्दघनरूपं यज्ज्ञात्वा तत्त्वात्मरूपतः ॥ १॥ स्वान्यत्सर्वं परित्यज्य स्वात्ममात्रतया स्थितिः । सच्चिदानन्दरूपेण संन्यासः स प्रकीर्तितः ॥ २॥ संन्यासी स्वात्मयात्रो हि नित्यं ब्रह्मात्मरूपतः । मायाजीवो जगद्वापि पश्यन्नपि न पश्यति ॥ ३॥ वन्ध्याकुमारवत्सर्वं तस्यस्यादसदेव हि । आनन्दघनरूपोऽसौ निर्विकल्पः सदा शुचिः ॥ ४॥ परिशुद्ध पराकाशे चिदानन्दघने शुभे । आस्तां भविस्थितिर्यित्यं…

शत्रु संहारकम श्री ऐक दन्त स्तोत्रम्

॥ शत्रु संहारकम श्री ऐक दन्त स्तोत्र ॥ सनत्कुमार उवाच श्रृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३॥ देवर्षय उवाच केनोपायेन देवेशं गणेशं मुनिसत्तमम् । पूजयामो विशेषेण तं ब्रवीहि…

श्री विन्ध्यवासिनी स्तोत्रम्

॥ श्री विन्ध्यवासिनी स्तोत्र ॥ ॥ ॐ गण गणपतये नमः ॥ श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं सदा मम सुरार्थपरा प्रसन्ना । विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा सिद्धैः सुसेवित-पदाब्जयुगा त्रिरूपा ॥ वेदैरगम्यमहिमा निजबोधतुष्टा नित्या गुणत्रयपराऽखिलभेदशून्या । एका प्रपञ्चकरणे त्रिगुणोरुशक्तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ पीयूष-सिन्धु-सुरपादपवाटिरत्नद्वीपे सुनीपवनशालिनि दुष्प्रवेशे । चिन्तामणि-प्रखचिते भवने निषण्णा विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता नारायणेन सबलौ मधुकैटभाख्यौ । या सञ्जहार…

अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम्

|| अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ अहमुवाच । यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन । तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ १॥ गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् । गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ २॥ स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् । तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ ३॥ नान्यं याचे…

श्री भृगुपञ्चकस्तोत्रम्

|| श्री भृगुपञ्चकस्तोत्रम् || द्विजेन्द्रवंशतारकं समस्तदुःखहारकं दरिद्रताविदारकं स्वधर्मसेतुधारकम् । सदैव देवनन्दितं समस्त शास्त्रपण्डितं भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ १॥ विरागरागनिर्झरं नमामि वै विदाम्वरं परम्परारविन्दरेणुषट्पदं सिताम्बारम् । सदैव साधनापरं समाधिनिष्ठभूसुरं भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ २॥ सनातनं च शाश्वतं समष्टिसौख्यसर्जकं समुन्नतं सुमानसं शिवादिसङ्गसाधकम् । समर्धकं समर्पितं सदैव शान्तिशोधकं नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ३॥ पठामि भार्गवोत्तमं…

वल्लभपञ्चाक्षरस्तोत्रम्

|| वल्लभपञ्चाक्षरस्तोत्रम् || श्रीवल्लवीवल्लभस्य वियोगाग्ने कृपाकर । अलौकिकनिजानन्द श्रीवल्लभ तवास्म्यहम् ॥ १॥ कृष्णाधरसुधाधारभरितावयवावृत । श्रीभागवतभावाब्धे श्रीवल्लभ तवास्म्यहम् ॥ २॥ भावात्मकस्वरूपार्तिभावसेवाप्रदर्शक । भाववल्लभ्यपादाब्ज श्रीवल्लभ तवास्म्यहम् ॥ ३॥ करुणायुतदृक्प्रान्तपातपातकनाशक । निःसाधनजनाधीश श्रीवल्लभ तवास्म्यहम् ॥ ४॥ मधुरास्यातिमधुरदृगन्त मधुराधर । स्वरूपमधुराकार श्रीवल्लभ तवास्म्यहम् ॥ ५॥ दीनतामात्रसन्तुष्ट दीनतामार्गबोधक । दीनतापूर्णहृदय श्रीवल्लभ तवास्म्यहम् ॥ ६॥ अङ्गीकृतकृतानेकापराधविहतिक्षम । गृहीतहस्तनिर्वाह श्रीवल्लभ तवास्म्यहम् ॥…

उमा महेश्वर स्तोत्रम्

॥ उमा महेश्वर स्तोत्रम् ॥ नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेंद्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिंचिविष्ण्विंद्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जंभारिमुख्यैरभिवंदिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ नमः शिवाभ्यां परमौषधाभ्यां पंचाक्षरीपंजररंजिताभ्याम् । प्रपंचसृष्टिस्थितिसंहृताभ्यां नमो नमः शंकरपार्वतीभ्याम्…

श्रीशिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

|| श्रीशिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् || श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय । नामशेषितानमद्भावान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय ॥ २॥ इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय । सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय…

शिवोहंस्तोत्रम्

|| शिवोहंस्तोत्रम् || (स्रग्धरावृत्तम्) स्वार्चिः सत्यस्य सत्यं गुणरहितपराकाशरूपं प्रशान्तं सर्वस्मिन् यत्स्वमात्रं सदिति चिदिति वा दृश्यशून्यं विशुद्धम् । मायाऽविद्यादिहीनं निरतिशयसुखं निस्तरङ्गाब्धिवद्यत् अद्वैतं ब्रह्म नित्यं श्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ १॥ विश्वं नेति प्रमाणाद्विगलितजगदाकारभासा स्वमात्रः सम्यक् सच्चिद्धनैकामृतसुखकलास्वादतृप्तो विवेकी । निर्द्वन्द्वो नित्यमुक्तो विगलितममताहङ्कृतिर्नित्यतृप्तः आस्ते यद्ब्रह्ममात्रं श्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ २॥ आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं सुदुःखं छित्त्वा…

श्रीसोमेश्वरपञ्चकस्तोत्रम्

|| श्रीसोमेश्वरपञ्चकस्तोत्रम् || (शार्दूलविक्रीडितम्) विश्वं यत्र भवेद्विलीनमखिलं तल्लिङ्गमस्मिन् सदा सत्यं ज्ञानमनन्तमद्वयमहो ब्रह्म स्फुटं दृश्यते । पञ्चब्रह्मसुलक्षणानि हि मुखैर्यः पञ्चभिर्दर्शयन् आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ १॥ नित्यं यत्परिपूर्णलक्षणमिदं ह्यागन्तुकं न स्वकं मत्वैवं द्विमुखं न दर्शयति नो मन्ये स्फुटं शङ्करम् । सत्यज्ञानसुखं मुखत्रयमिदं भक्तेषु सन्दर्शयन् आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ २॥ आश्चर्यं सुमनोहरं विलसितं लिङ्गे सुमूर्तिस्तु या…

श्रीसुदर्शनमालामन्त्रस्तोत्रम्

|| श्रीसुदर्शनमालामन्त्रस्तोत्रम् || अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः । अनुष्टुप् छन्दः । सुदर्शनचक्ररूपी श्रीहरिर्देवता । आचक्राय स्वाहेति बीजम् । सुचक्राय स्वाहेति शक्तिः । ज्वालाचक्राय स्वाहेति कीलकम् । श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः । ॐ आचक्राय स्वाहा । विचक्राय स्वाहा । सुचक्राय स्वाहा । धीचक्राय स्वाहा । ज्वालाचक्राय स्वाहा । सुचक्राय स्वाहेति कराङ्गन्यासौ । ध्यानम् कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं…

मन्त्रोत्कीलन विमोचन स्तोत्र्म्

|| मन्त्रोत्कीलन विमोचन स्तोत्र्म् || अस्य श्री सर्वमन्त्रोत्कीलन मन्त्रस्य मूलप्रकृति पुरुष ऋषि अनुष्टुप् जगती छन्दः श्री महाविद्या देवता निरङ्कारा मायाशक्तिः ह्रीं ह्रीं बीजं क्रौं कीलकं मम क्रियमाण सञ्चित जन्म मरण सर्वमन्त्रोत्कीलन– शाप विमोचन द्वारा धर्मार्थकाममोक्षार्थे जपे विनियोगः । न्यासः – ह्रीं बीजोत्कीलनं अङ्गुष्ठाभ्यां नमः हृदयाय नमः श्रीं मन्त्रोत्कीलनं तर्जनीभ्यां नमः शिरसे स्वाहा क्लीं देवोत्कीलनं मध्यमाभ्यां…

चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम्

|| चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम् || मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् । शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥ १॥ ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः । क्वापि गतं भवदीक्षासौ खलु काममदीक्षा ॥ २॥ क्लेशरुजां हरणेन त्वच्चरणस्मरणेन । अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥ ३॥ प्रेमदुघं तव पादं को न भजेदविवादम् । दैववशाद्धृदि पेयं दर्शितवानसि मे यम् ॥ ४॥ चित्रमिदं सदमेयः…

अजपाजपस्तोत्रम्

|| अजपाजपस्तोत्रम् || ॐ तत्सत् ब्रह्मणे नमः । ॐ मूलाधारे वारिजपत्रे चतरस्रे वंशंषंसं वर्ण विशालं सुविशालम् । रक्तंवर्णे श्रीगणनाथं भगवन्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १॥ स्वाधिष्ठाने षट्दल पद्मे तनुलिङ्गं बंलांतं तत् वर्णमयाभं सुविशालम् । पीतंवर्णं वाक्पति रूपं द्रुहिणन्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ २॥ नाभौ पद्मंयत्रदशाढां डंफं वर्णं लक्ष्मीकान्तं गरुडारुढं नरवीरम् । नीलंवर्णं निर्गुणरूपं निगमान्तं दत्तात्रेयं…

नक्षत्रमालिकास्तोत्रम्

|| नक्षत्रमालिकास्तोत्रम् || गोदावर्या महानद्या उत्तरे सिंहपर्वते । सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १॥ जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे । मार्गशीष्र्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २॥ मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् । दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३॥ भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः । रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४॥ भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः । बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ ५॥ यस्यास्ति माहुरे निद्रा…

पञ्चमाष्टकस्थालर्ककृतस्तोत्रम्

|| पञ्चमाष्टकस्थालर्ककृतस्तोत्रम् || वन्दे देवं हेत्वात्मानं सच्चिद्रूपं सर्वात्मानम् । विश्वाधारं मुन्याकारं स्वेच्छाचारं वाघृद्दूरम् ॥ १॥ विश्वओपाध्या यो ब्रह्मेशोऽविद्योपाध्यात्मानीशः । तत्त्वज्ञानान्मायानाशे तर्ह्रेकस्त्वं नेशोऽनीशः ॥ २॥ रज्ज्वज्ञानात्सर्पस्तत्र भ्रान्त्या भातीशैवं ह्यत्र । जीवभ्रान्तिस्त्वेषा मिथ्या सा मेऽद्यारं नष्टाऽऽप्रोक्त्या ॥ ३॥ धन्योऽस्म्यद्य त्वद्दृक्पूतो जातोऽस्म्यद्य ब्रह्मीभूतः । त्वं ब्रह्मैवासीशारूपो मायायोगान्नानारूपः ॥ ४॥ दत्तात्रेयः प्रज्ञामेयो वेदैर्गेयो योगिध्येयः । त्वं विश्वात्मा कस्त्वामीशः स्तोतुं…

श्रीपादश्रीवल्लभस्तोत्रम्

|| श्रीपादश्रीवल्लभस्तोत्रम् || ब्राह्मण्यै यो मङ्क्षु भिक्षान्नतोऽभूत्प्रीतस्तस्या यः कृपार्द्रः सुतोऽभूत् । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ १॥ आश्वास्याम्बां प्रव्रजन्नग्रजान्यः कृत्वा स्वङ्गान् सञ्चचारार्यमान्यः । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ २॥ सार्भा मर्तुं योद्यता स्त्रीस्तु तस्या दुःखं हर्तुं त्वं स्वयं तत्सुतः स्याः । विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥…

श्रीशरवणभवमानसपूजास्तोत्रम्

|| श्रीशरवणभवमानसपूजास्तोत्रम् || ॐ श्रीगणेशाय नमः । गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो हकारो हानिं च प्रथयतितरामेव जगति । अतो मोहान्धत्वं शिथिलयति यन्नाम गुह इ- त्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम् ॥ १॥ समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः स्वमूलायातानां समुचितफलप्रापणचणम् । स्वसेवानिष्ठानां सततमपि सौख्योपगमकं सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम् ॥ २॥ सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः समाराध्य स्वामिन् भज विहितमावाहनमिदम् ।…

श्रीविष्णुपूजास्तोत्रम्

|| श्रीविष्णुपूजास्तोत्रम् || शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १॥ आराधयामि मणिसन्निभमात्मविष्णुं मायापुरे हृदयपङ्कजसन्निविष्टम् । श्रद्धानदीविमलचित्तजलाभिषिक्तं नित्यं समाधिकुसुमैरपुनर्भवाय ॥ २॥ ज्योतिश्शान्तं सर्वलोकान्तरस्थमोङ्कारारव्यं योगिहृद्ध्यानगम्यम् । साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णुमावाहयामि ॥ ३॥ कल्पद्रुमे मणिवेदिमध्ये सिंहासने स्वर्णमयं सरत्नम् । विचित्रवस्त्रावृतमच्युत प्रभो गहाण लक्ष्मीधरणीसमन्वित ॥ ४॥…

श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम्

|| श्रीबालानिर्गुणमानसपूजा पराभावनास्तोत्रम् || ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् । आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥ कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे । पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥ आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः । मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥ स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः । वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥…

श्रीपरापूजाप्रकाशस्तोत्रम्

|| श्रीपरापूजाप्रकाशस्तोत्रम् || ॥ अथ श्रीपरा-पूजा-प्रकाश-स्तोत्रम् ॥ (छह आम्नायों के क्रम से भगवती षोडशी की आराधना) मुखं बिन्दुर्मिश्रो ह्यरुण-धवलं बिन्दु-युगकम् कुच-द्वन्द्वं योनिर्भगवति! च ते हार्द्ध-सु-कला । सुसामास्यं वा ऋग्यजुरुभयकं ते स्तन-युगम् ततोऽथर्वो योनिस्तव जननि हे मन्मथ-कले! ॥ १॥ हे भगवती षडैश्वर्य-शालिनी, काम-कला-रूपिणी माता! सूर्य-बिन्दु ही आपका मुख है, अरुण तथा श्वेत अग्नि-सोमात्मक बिन्दु-युगल आपके स्तन-युगल…

श्रीचामुण्डास्तोत्रम्

|| श्रीचामुण्डास्तोत्रम् || (नवार्ण मन्त्र-गर्भित ) ऐं बीजं परमात्मनिःश्वसितभूवेदादिवर्णात्मकं, ये भक्त्या मनसा जपन्ति परमं तेषां सुवाक्ज्ञानदाम् । अम्बां मद्धृदयाम्बरस्थपरचिद्रूपामनन्तास्पदां, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ १॥ ह्रीङ्काराम्बररङ्गनर्तनकरीमोङ्कारलक्ष्यां परा- मोङ्कारात्मकवर्णलक्ष्यविभवामाकारहीनां शिवाम् । साकारां वरदाभयाङ्कुशमहापाशान् करैर्बिभ्रतीं, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ २॥ क्लीङ्काराख्यमहामणिं रतिपतिः प्राप्याङ्गहीनः परं, ग्रीवापादविहीनकोऽपि मदनो यस्याः प्रसादान्मुदा । त्रीन् लोकान् कुसुमेषुभिर्विजितवान् तां वेदसारात्मिकां चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥…

ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम्

|| ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् || पार्वत्युवाच देवदेव जगन्नाथ! कृपाकर! मयि प्रभो! आगमोक्त-मकारांश्च ज्ञानमार्गेण ब्रूहि मे ॥ १॥ ईश्वर उवाच कलाः सप्तदश प्रोक्ता अमृतं स्राव्यते शशी । प्रथमा सा विजानीयादितरे मद्यपायिनः ॥ २॥ कर्माकर्मपशून् हत्वा ज्ञानखड्गेन चैव हि । द्वितीयं विन्दते येन इतरे मांसभक्षकाः ॥ ३॥ मनोमीनं तृतीयं च हत्वा सङ्कल्प-कल्पनाः । स्वरूपाकार वृत्तिश्च शुद्धं मीनं तदुच्यते…

काकिन्यष्टोत्तरसहस्रनामस्तोत्र

|| काकिन्यष्टोत्तरसहस्रनामस्तोत्र || श्रीगणेशाय नमः । श्रीआनन्दभैरव उवाच । वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते । ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥ १ ॥ कालिके कालरात्रिस्थे महाकालनिषेविते । शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात् ॥ २ ॥ सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् । अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम् ॥ ३ ॥ ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् । सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम् ॥ ४ ॥ परानन्दकरं ब्रह्म निर्वाणपदलालितम् । स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने…

श्रीकाकिनीस्तोत्रम्

|| श्रीकाकिनीस्तोत्रम् || अथैकोनषष्टितमः पटलः श्रीआनन्दभैरवी उवाच ज्ञानेश्वरी शुभकरी परिभावनीया योगेश्वरैर्हरिहरैर्गुरुभिर्महेन्द्रैः । तां काकिनीं परशिवां परमेशपत्नीं संस्तौमि चारुहृदयाम्बुजपीठमध्ये ॥ ५९-१॥ एकाकिनी त्रिजगतामतिनाशकाले त्वां काकिनीं समरकार्णा(ण्ड) ककाकपत्नीम् । त्वं साक्षिणी भुवनभङ्गविधौ सकास्ते भूषण्डकाकमहिषीव वयं भजामः ॥ ५९-२॥ एकाकिनीं सकलधारणकालयोगे आधार्य देहसमये सति काकिनीं त्वाम् । वाय्वासने मनस आशु विकारनाशे काकेन्द्रचञ्चुचलितामहमेवमीडे ॥ ५९-३॥ भावोदये प्रणयिनीमगतौ च भावा…

श्रीराकिणीकेशवसहस्रनामस्तोत्रम्

|| श्रीराकिणीकेशवसहस्रनामस्तोत्रम् || श्रीगणेशाय नमः । आनन्दभैरवी उवाच । कथयामि महाकाल परमाद्भुतसाधनम् । कुण्डलीरूपिणी देवी राकिण्याः कुलवल्लभ ॥ १॥ मानसं द्रव्यमानीय चाथवा बाह्यद्रव्यकम् । अनष्टहृष्टचित्तश्च पूजयेत् सावधानतः ॥ २॥ भक्त्या जपेन्मूलमन्त्रं मानसं सर्वमेव च । पूजयित्वा ततो जप्त्वा होमं कुर्यात् परामृतैः ॥ ३॥ समासैः पक्वनैवेद्यैः सुगन्धिकुसुमैस्तथा । स्वयम्भूकुसुमैनीत्यमर्घ्यं कृत्त्वा निवेदयेत् ॥ ४॥ सुमुखं पूजयेन्नित्यं मधुमांसेन…

योगिनीनायिकास्तोत्रम्

|| योगिनीनायिकास्तोत्रम् || श्री उन्मत्तभैरव उवाच आस्याः स्तोत्रं प्रवक्ष्यामि सावधानावधारय । साक्षात्सिद्धिं समाप्नोति योगिनी स्तोत्रपाठतः ॥ १॥ ध्यानम् । हृदयाम्भोरुहे ध्याये सुन्दरीं नवयौवनाम् । किङ्किणीजालमालाढ्यां त्रिपुरां पद्मलोचनाम् । वराभयकरां धन्यां योगिनीं कामचारिणीम् ॥ २॥ वन्दे योगिनी! योगसिद्धिधनदे! बन्धूकपुष्पोज्ज्वले नानालङ्कृतिविग्रहे! सुरमणि श्रीदेवकन्ये प्रिये! । दारिद्र्यं हन मे सुखं प्रियपदं वाञ्छादिसिद्धिं देहि राज्यं मित्रकलत्रपुत्रधनदे! मातः! समाधेहि मे…

श्रीलाकिनीदेवीस्तोत्रम्

|| श्रीलाकिनीदेवीस्तोत्रम् || अथैकोनपञ्चाशत्तमः पटलः आनन्दभैरवी उवाच षट्चक्रभेदनार्थाय सर्वसिद्धसुसिद्धये । वक्ष्यामि लाकिनीदेवीस्तोत्रं परमदुर्लभम् ॥ ४९-१॥ यत्पाठादतिसन्तोषं प्राप्नोति यतिरीश्वर । तत्क्रियासारसम्पन्नं स्तवनं लाकिनीप्रियम् ॥ ४९-२॥ अस्य श्रीलाकिनीस्तोत्रस्य महाविष्णुकहोड-ऋषि-र्गायत्रीच्छन्दो महासिद्धिदमृत्युञ्जयमहारुद्र लाकिनी सरस्वतीदेवता मणिपूरभेदने जपे विनियोगः ॥ ओं बीजाक्षरमूर्तिमार्ति हरिणीमार्यां जयां बुद्धिदां दीनानामपराधकोटिहननीं संज्ञामणिं योगिनाम् । त्वामाद्यामनुरागिणीं गुणगणामोदैकहेतुस्थलां स्थित्यन्तःकृतकौतुकीमवरदे वन्दे मुदा लाकिनीम् ॥ ४९-३॥ हेरम्बार्चनसिद्धिदाद्वयगता कोटिप्रभा भास्करा साकारा…

श्रीलाकिनीसहस्रनामस्तोत्रम्

|| श्रीलाकिनीसहस्रनामस्तोत्रम् || श्रीगणेशाय नमः । आनन्दभैरवी उवाच । अथ सम्भेदनार्थाय वक्ष्ये षट्पङ्कजस्य च । महारुद्रस्य देवस्य श्री श्रीमृत्युञ्जयस्य च ॥ १॥ लाकिनी शक्तिसहितं सहस्रनाममङ्गलम् । अष्टोत्तरशतव्याप्तं निगूढं भव सिद्धये ॥ २॥ धारयित्वा पठित्वा च श्रुत्वा वा नाममङ्गलम् । श‍ृणुष्व परमानन्द योगेन्द्र चन्द्रशेखर ॥ ३॥ तवाह्लादप्रणयनात् सर्वसम्पत्तिप्राप्तये । मणियोगसुसिद्ध्यर्थं सावधानाऽवधारय ॥ ४॥ अष्टोत्तरसहस्रनाममङ्गलस्य कहोड ऋषिर्गायत्रीच्छन्दो…

शाकिनीस्तोत्रम्

|| शाकिनीस्तोत्रम् || अथ सप्तषष्टितमः पटलः श्रीआनन्दभैरवी उवाच कुरु नाथ वन्दनं भो पूजनं कवचं पठ । वर्णाध्यानं कण्ठपद्मे स्थिरो भव जगत्पते ॥ ६७-१॥ परमा शाकिनी विद्या महामोहनिवारिणी । योगिनीकोटिभिः सार्धं राजते सूर्यवत् सदा ॥ ६७-२॥ वाराणसीपुरे स्थित्वा कण्ठपद्मस्थितां भज । स्तोत्रेणानेन विधिना भक्तिं कुरु महाशिवे ॥ ६७-३॥ अखण्डे नीलपङ्केरुहविमलकरे स्थापितां षोडशारे हेमाभां विद्युताभां सुकणकवलयां चन्द्रकोटिप्रभावाम्…

हाकिनीसहस्रनामस्तोत्र

|| हाकिनीसहस्रनामस्तोत्र || श्रीगणेशाय नमः । श्री आनन्दभैरव उवाच । आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले कान्ते दत्तसुशान्तिदे यमदमाह्लादैकशक्तिप्रभे । स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं हाकिन्याः शुभनाम सुन्दरसहस्राष्टोत्तरं श्रीगुरोः ॥ १ ॥ श्री आनन्दभैरवी उवाच साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो नाम्नां शक्तिसहस्रनाम भाविकं ज्ञानादि चाष्टोत्तरम् । योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषाचीतैः सेव्यं पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥ २ ॥ अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्रनाम्नः स्तोत्रस्य…

ईश्वरस्तोत्रम् २

|| ईश्वरस्तोत्रम् २ || अथ द्विषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ नाथ प्रवक्ष्येऽहं काकिनीगुरुदेवयोः । मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो भवेद् यतिः ॥ ६२-१॥ एतत्स्तवनपाठेन सहस्राख्यान्तसिद्धिषु । राजत्वं लभते सद्योऽथवा योगी च सम्पदि ॥ ६२-२॥ यथा जनकराजा च विषये गुरुभक्तिमान् । महासिद्धो महाज्ञानी तथा भवति साधकः ॥ ६२-३॥ सुरा नागा रुद्रगणाः सर्वे विद्यार्थसेवकाः । योगी ज्ञानी तथा…

Join WhatsApp Channel Download App