Shiva

शंकर गुरु स्तोत्र

Shankara Guru Stotram Hindi Lyrics

ShivaStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शंकर गुरु स्तोत्र ||

वेदधर्मपरप्रतिष्ठितिकारणं यतिपुङ्गवं
केरलेभ्य उपस्थितं भरतैकखण्डसमुद्धरम्।

आहिमाद्रिपरापरोक्षितवेदतत्त्वविबोधकं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

श्रौतयज्ञसुलग्नमानसयज्वनां महितात्मनां
चीर्णकर्मफलाधिसन्धिनिरासनेशसमर्पणम्।

निस्तुलं परमार्थदं भवतीति बोधनदायकं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

षण्मतं बहुदैवतं भवितेति भेदधिया जनाः
क्लेशमाप्य निरन्तरं कलहायमानविधिक्रमम्।

माद्रियध्वमिहास्ति दैवतमेकमित्यनुबोधदं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

आदिमं पदमस्तु देवसिषेविषा परिकीर्तना-
ऽनन्तनामसुविस्तरेण बहुस्तवप्रविधायकम्।

तन्मनोज्ञपदेषु तत्त्वसुदायकं करुणाम्बुधिं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

बादरायणमौनिसन्ततसूत्रभाष्यमहाकृतिं
ब्रह्म निर्द्वयमन्यदस्ति मृषेति सुस्थितिबोधदम्।

स्वीयतर्कबलेन निर्जितसर्ववादिमहापटुं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

आश्रयं परमं गुरोरथ लप्स्यते स्तवनादितः
शङ्करस्य गुरोर्वचःसु निबोधमर्हति भक्तिमान्।

प्रज्ञयोत्तमभावुकं तु लभेय यत्कृपया हि तं
संश्रये गुरुशङ्करं भुवि शङ्करं मम शङ्करम्।

Read in More Languages:

Found a Mistake or Error? Report it Now

शंकर गुरु स्तोत्र PDF

Download शंकर गुरु स्तोत्र PDF

शंकर गुरु स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App