षण्मुख पंचरत्न स्तुति
|| षण्मुख पंचरत्न स्तुति (Shanmukha Pancharatna Stuti Marathi PDF) || स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः…