|| ऋण विमोचन नरसिंह स्तोत्र ||
देवकार्यस्य सिद्ध्यर्थं सभास्तम्भसमुद्भवम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
लक्ष्म्यालिङ्गितवामाङ्गं भक्ताभयवरप्रदम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
सिंहनादेन महता दिग्दन्तिभयनाशकम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारणम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
ज्वालामालाधरं शङ्खचक्राब्जायुधधारिणम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
स्मरणात् सर्वपापघ्नं कद्रूजविषशोधनम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
कोटिसूर्यप्रतीकाशमाभिचारविनाशकम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिशंसितम्|
श्रीनृसिंहमहावीरं नमामि ऋणमुक्तये|
Found a Mistake or Error? Report it Now