|| श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्) ||
बृहस्पतिरुवाच ।
इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्भुतम् ।
यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ १ ॥
कवचं बिभ्रतो व्याधिर्न भियाऽऽयाति सन्निधिम् ।
यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥ २ ॥
शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३ ॥
जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो दिनकरः स्वयम् ॥ ४ ॥
व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्तितः ।
सद्यो रोगहरं सारं सर्वपापप्रणाशनम् ॥ ५ ॥
ओं क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ।
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु ॥ ६ ॥
ओं ह्रीं ह्रीं श्रीं श्रीं सूर्याय स्वाहा मे पातु नासिकाम् ।
चक्षुर्मे पातु सूर्यश्च तारकं च विकर्तनः ॥ ७ ॥
भास्करो मेऽधरं पातु दन्तान् दिनकरः सदा ।
प्रचण्डः पातु गण्डं मे मार्ताण्डः कर्णमेव च ।
मिहिरश्च सदा स्कन्धे जङ्घे पूषा सदाऽवतु ॥ ८ ॥
वक्षः पातु रविः शश्वन्नाभिं सूर्यः स्वयं सदा ।
कङ्कालं मे सदा पातु सर्वदेवनमस्कृतः ॥ ९ ॥
कर्णौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः ।
विभाकरो मे सर्वाङ्गं पातु सन्ततमीश्वरः ॥ १० ॥
इति ते कथितं वत्स कवचं सुमनोहरम् ।
जगद्विलक्षणं नाम त्रिजगत्सु सुदुर्लभम् ॥ ११ ॥
पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे ।
मया दत्तं च तुभ्यं तद्यस्मै कस्मै न देहि भोः ॥ १२ ॥
व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः ।
भवानरोगी श्रीमांश्च भविष्यति न संशयः ॥ १३ ॥
लक्षवर्षहविष्येण यत्फलं लभते नरः ।
तत्फलं लभते नूनं कवचस्यास्य धारणात् ॥ १४ ॥
इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत् ।
दशलक्षप्रजप्तोऽपि मन्त्रसिद्धिर्न जायते ॥ १५ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकोनविंशोऽध्याये बृहस्पति कृत श्री सूर्य कवचम् ।
Found a Mistake or Error? Report it Now